|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.49. अध्यायः 049
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-49-0x(4967)(57391)
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष।
उलूकः सौबलश्चैव राजा च सह सोदरैः॥ 8-49-1(57392)
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्।
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे॥ 8-49-2(57393)
ततो युद्धमतीवासीन्मुहूर्तमिव भारत।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्॥ 8-49-3(57394)
कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे।
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव॥ 8-49-4(57395)
शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ।
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम्॥ 8-49-5(57396)
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्।
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः॥ 8-49-6(57397)
ततः शिखण्डी कुपितः शरैः सप्तभिराहवे।
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः॥ 8-49-7(57398)
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः।
`ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः'।
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः॥ 8-49-8(57399)
हताश्वात्तु ततो यानादवप्लुत्य महारथः।
खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ॥ 8-49-9(57400)
तमापतन्तं सहसा शरैः सन्नतपर्वभिः।
वारयामास समरे तदद्भुतमिवाभवत्॥ 8-49-10(57401)
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा।
निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत॥ 8-49-11(57402)
कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप।
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः॥ 8-49-12(57403)
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति।
प्रतिजग्राह वेगेन कृतवर्मा महारथः॥ 8-49-13(57404)
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति।
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत्॥ 8-49-14(57405)
नकुलं सहदेवं च त्वरमाणौ महारथौ।
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्॥ 8-49-15(57406)
भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः।
कर्णो वैकर्तनो युद्धे वारयामास भारत॥ 8-49-16(57407)
शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि।
प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ॥ 8-49-17(57408)
ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान्।
चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः॥ 8-49-18(57409)
शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत।
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः॥ 8-49-19(57410)
स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्।
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत्॥ 8-49-20(57411)
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः।
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ॥ 8-49-21(57412)
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः।
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति॥ 8-49-22(57413)
दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम्।
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम॥ 8-49-23(57414)
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः।
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः॥ 8-49-24(57415)
अथास्य सशरं चापं पुनश्चिच्छेद मारिष।
सारथिं च शरेणास्य मृशं मर्मस्वताडयत्॥ 8-49-25(57416)
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्।
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्॥ 8-49-26(57417)
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे।
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम्॥ 8-49-27(57418)
चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम्।
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत्॥ 8-49-28(57419)
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्।
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत॥ 8-49-29(57420)
तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः।
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश॥ 8-49-30(57421)
धृष्टद्युम्नं तु समरे सन्निवार्य महारथः।
कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत॥ 8-49-31(57422)
तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे।
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप॥ 8-49-32(57423)
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः।
आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम्॥ 8-49-33(57424)
कृतवर्मा तु समरे पार्षतेन दृढाहतः।
पार्षतं सरथं साश्वं छादयामास सायकैः॥ 8-49-34(57425)
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते।
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः॥ 8-49-35(57426)
विधूय तं बाणगणं शरैः कनकभूषणैः।
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः॥ 8-49-36(57427)
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्।
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः॥ 8-49-37(57428)
तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्।
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि॥ 8-49-38(57429)
दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्।
कृतवर्माणमासाद्य वारयामास पार्षतः॥ 8-49-39(57430)
`यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत्।
गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे॥ 8-49-40(57431)
मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते।
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः॥ 8-49-41(57432)
गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः।
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत्॥ 8-49-42(57433)
खङ्गेन शितधारेण स हतः प्रापतद्रथात्।
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह॥ 8-49-43(57434)
पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः।
स तं न ममृषे युद्वे तलशब्दं समीरितम्॥ 8-49-44(57435)
अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः।
अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत्॥ 8-49-45(57436)
ततो राजन्महेष्वासं कृतवर्माणमाशु वै।
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत्॥ 8-49-46(57437)
सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः।
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्'॥ 8-49-47(57438)
धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः।
कौरवान्समरे तूर्णं वारयामास सायकैः॥ 8-49-48(57439)
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्।
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत॥ ॥ 8-49-49(57440)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनपञ्चाशोऽध्यायः॥ 49 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|